हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Vakratunda Ganesha Stavaraja – वक्रतुण्ड गणेश स्तवराजः
अस्य गायत्री मन्त्रः ।
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥
ओङ्कारमाद्यं प्रवदन्ति सन्तो
वाचः श्रुतीनामपि यं गृणन्ति ।
गजाननं देवगणानताङ्घ्रिं
भजेऽहमर्धेन्दुकलावतंसम् ॥ 1 ॥
पादारविन्दार्चन तत्पराणां
संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयै-
-स्तं नौमि विघ्नेश्वरमम्बुदाभम् ॥ 2 ॥
कृताङ्गरागं नवकुङ्कुमेन
मत्तालिजालं मदपङ्कमग्नम् ।
निवारयन्तं निजकर्णतालैः
को विस्मरेत्पुत्रमनङ्गशत्रोः ॥ 3 ॥
शम्भोर्जटाजूटनिवासिगङ्गा-
-जलं समानीय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं
गजाननं भक्तियुता भजन्ति ॥ 4 ॥
कुमारमुक्तौ पुनरात्महेतोः
पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण
मौग्ध्येन तं नागमुखं भजामि ॥ 5 ॥
त्वया समुद्धृत्य गजास्य हस्ता-
-द्ये शीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गणे ते विचरन्ति ताराः
कालात्मना मौक्तिकतुल्यभासः ॥ 6 ॥
क्रीडारते वारिनिधौ गजास्ये
वेलामतिक्रामति वारिपूरे ।
कल्पावसानं परिचिन्त्य देवाः
कैलासनाथं श्रुतिभिः स्तुवन्ति ॥ 7 ॥
नागानने नागकृतोत्तरीये
क्रीडारते देवकुमारसङ्घैः ।
त्वयि क्षणं कालगतिं विहाय
तौ प्रापतुः कन्दुकतामिनेन्दू ॥ 8 ॥
मदोल्लसत्पञ्चमुखैरजस्र-
-मध्यापयन्तं सकलागमार्थम् ।
देवानृषीन्भक्तजनैकमित्रं
हेरम्बमर्कारुणमाश्रयामि ॥ 9 ॥
पादाम्बुजाभ्यामतिवामनाभ्यां
कृतार्थयन्तं कृपया धरित्रीम् ।
अकारणं कारणमाप्तवाचां
तं नागवक्त्रं न जहाति चेतः ॥ 10 ॥
येनार्पितं सत्यवतीसुताय
पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभि-
-रावाप्यमानन्दघनं भजामि ॥ 11 ॥
पदं श्रुतीनामपदं स्तुतीनां
लीलावतारं परमात्ममूर्तेः ।
नागात्मको वा पुरुषात्मको वा
त्वभेद्यमाद्यं भज विघ्नराजम् ॥ 12 ॥
पाशाङ्कुशौ भग्नरदं त्वभीष्टं
करैर्दधानं कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुशीकरौघैः
सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ 13 ॥
अनेकमेकं गजमेकदन्तं
चैतन्यरूपं जगदादिबीजम् ।
ब्रह्मेति यं वेदवितो वदन्ति
तं शम्भुसूनुं सततं प्रपद्ये ॥ 14 ॥
स्वाङ्कस्थिताया निजवल्लभाया
मुखाम्बुजालोकन लोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन
रुद्धं भजे विश्वविमोहनं तम् ॥ 15 ॥
ये पूर्वमाराध्य गजानन त्वां
सर्वाणि शास्त्राणि पठन्ति तेषाम् ।
त्वत्तो न चान्यत्प्रतिपाद्यमेतै-
-स्तदस्ति चेत्सर्वमसत्यकल्पम् ॥ 16 ॥
हिरण्यवर्णं जगदीशितारं
कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्त-
-स्तत्कालयोगैस्तमहं प्रपद्ये ॥ 17 ॥
वेदान्तगीतं पुरुषं भजेऽह-
-मात्मानमानन्दघनं हृदिस्थम् ।
गजाननं यन्महसा जनानां
विघ्नान्धकारो विलयं प्रयाति ॥ 18 ॥
शम्भोः समालोक्य जटाकलापे
शशाङ्कखण्डं निजपुष्करेण ।
स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्या-
-दाक्रष्टुकामः श्रियमातनोतु ॥ 19 ॥
विघ्नार्गलानां विनिपातनार्थं
यं नारिकेलैः कदलीफलाद्यैः ।
प्रतारयन्ते मदवारणास्यं
प्रभुं सदाऽभीष्टमहं भजेयम् ॥ 20 ॥
यज्ञैरनेकैर्बहुभिस्तपोभि-
-राराध्यमाद्यं गजराजवक्त्रम् ।
स्तुत्यानया ये विधिवत्स्तुवन्ति
ते सर्वलक्ष्मीनिलया भवन्ति ॥ 21 ॥
इति श्री वक्रतुण्ड गणेश स्तवराजः ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.